शिशुपालवधम् -माघ
जरासंघ का वध करके श्री कृष्ण, अर्जुन और भीम इन्द्रप्रस्थ
लौट आये एवं धर्मराज युधिष्ठिर से सारा वृत्तांत कहा जिसे सुनकर वे अत्यन्त प्रसन्न
हुये। तत्पश्चात धर्मराज युधिष्ठिर ने राजसूय यज्ञ की तैयारी शुरू करवा दी। उस यज्ञ
के ऋतिज आचार्य होते थे। यज्ञ को सफल बनाने के लिये भारतवर्ष के समस्त बड़े-बड़े ऋषि
महर्षि-भगवान वेदव्यास, भारद्वाज, सुनत्तु, गौतम, असित, वसिष्ठ, च्यवन, कण्व, मैत्रेय,
कवष, जित, विश्वामित्र, वामदेव, सुमति, जैमिनि, क्रतु, पैल, पराशर, गर्ग, वैशम्पायन,
अथर्वा, कश्यप, धौम्य, परशुराम, शुक्राचार्य, आसुरि, वीतहोत्र, मधुद्वन्दा, वीरसेन,
अकृतब्रण आदि - उपस्थित थे। सभी देशों के राजाधिराज भी वहाँ पधारे। ऋतिजों ने शास्त्र
विधि से यज्ञ-भूमि को सोने के हल से जुतवा कर धर्मराज युधिष्ठिर को दीक्षा दी। धर्मराज
युधिष्ठिर ने सोमलता का रस निकालने के समय यज्ञ की भूल-चूक देखने वाले सद्पतियों की
विधिवत पूजा की। अब समस्त सभासदों में इस विषय पर विचार होने लगा कि सब से पहले किस
देवता की पूजा की जाये। तब सहदेव उठ कर बोले –
-- see sanskrit drama
-- see sanskrit drama
"श्री कृष्ण देवन के देव, उन्हीं को सब से आगे
लेव।
ब्रह्मा शंकर पूजत जिनको, पहिली पूजा दीजै उनको।
अक्षर ब्रह्म कृष्ण यदुराई, वेदन में महिमा तिन गाई।
अग्र तिलक यदुपति को दीजै, सब मिलि पूजन उनको कीजै।"
परमज्ञानी
सहदेव जी के वचन सुनकर सभी सत्पुरुषों ने साधु! साधु! कह कर पुकारा। भीष्म पितामह ने
स्वयं अनुमोदन करते हुये सहदेव के कथन की प्रशंसा की। तब धर्मराज युधिष्ठिर ने शास्त्रोक्त
विधि से भगवान श्री कृष्ण का पूजन आरम्भ किया। चेदिराज शिशुपाल अपने आसन पर बैठा हुआ
यह सब दृश्य देख रहा था। सहदेव के द्वारा प्रस्तावित तथा भीष्म के द्वारा समर्थित श्री
कृष्ण की अग्र पूजा को वह सहन न कर सका और उसका हृदय क्रोध से भर उठा। वह उठ कर खड़ा
हो गया और बोला, 'हे सभासदों! मुझे ऐसा प्रतीत हो रहा है कि काल वश सभी की मति मारी
गई है। क्या इस बालक सहदेव से अधिक बुद्धिमान व्यक्ति इस सभा में नहीं है जो इस बालक
की हाँ में हाँ मिला कर अयोग्य व्यक्ति की पूजा स्वीकार कर ली गई है? क्या इस कृष्ण
से आयु, बल तथा बुद्धि में कोई भी बड़ा नहीं है? बड़े-बड़े त्रिकालदर्शी ऋषि-महर्षि
यहाँ पधारे हुये हैं। बड़े-बड़े राजा-महाराजा यहाँ पर उपस्थित हैं। क्या इस गाय चराने
वाल ग्वाले के समान कोई और यहाँ नहीं है? क्या कौआ हविश्यान्न ले सकता है? क्या गीदड़
सिंह का भाग प्राप्त कर सकता है? न इसका कोई कुल है न जाति, न ही इसका कोई वर्ण है।
राजा ययाति के शाप के कारण राजवंशियों ने इस यदुवंश को वैसे ही बहिष्कृत कर रखा है।
यह जरासंध के डर से मथुरा त्याग कर समुद्र में जा छिपा था। भला यह किस प्रकार अग्रपूजा
पाने का अधिकारी है? इस प्रकार शिशुपाल जगत के स्वामी श्री कृष्ण को गाली देने लगा।
उसके इन कटु वचनों की निन्दा करते हुये अर्जुन और भीमसेन अनेक राजाओं के साथ उसे मारने
के लिये उद्यत हो गये किन्तु श्री कृष्ण ने उन सभी को रोक दिया। श्री कृष्ण के अनेक
भक्त सभा छोड़ कर चले गये क्योंकि वे श्री कृष्ण की निन्दा नहीं सुन सकते थे।
संस्कृत अध्ययन केन्द्र ---https://www.youtube.com/watch?v=-Vy8cNfZWUg
संस्कृत अध्ययन केन्द्र ---https://www.youtube.com/watch?v=-Vy8cNfZWUg
जब शिशुपाल श्री कृष्ण को एक सौ गाली दे चुका तब श्री कृष्ण ने गरज कर कहा, 'बस शिशुपाल! अब मेरे विषय में तेरे मुख से एक भी अपशब्द निकला तो तेरे प्राण नहीं बचेंगे। मैंने तेरे एक सौ अपशब्दों को क्षमा करने की प्रतिज्ञा की थी इसी लिये अब तक तेरे प्राण बचे रहे।' श्री कृष्ण के इन वचनों को सुन कर सभा में उपस्थित शिशुपाल के सारे समर्थक भय से थर्रा गये किन्तु शिशुपाल का विनाश समीप था। अतः उसने काल के वश होकर अपनी तलवार निकालते हुये श्री कृष्ण को फिर से गाली दी। शिशुपाल के मुख से अपशब्द के निकलते ही श्री कृष्ण ने अपना सुदर्शन चक्र चला दिया और पलक झपकते ही शिशुपाल का सिर कट कर गिर गया। उसके शरीर से एक ज्योति निकल कर भगवान श्री कृष्णचन्द्र के भीतर समा गया और वह पापी शिशुपाल, जो तीन जन्मों से भगवान से बैर भाव रखते आ रहा था, परमगति को प्राप्त हो गया। यह भगवान विष्णु का वही द्वारपाल था, जिसे सनकादि मुनियों ने शाप दिया था। वे जय और विजय अपने पहले जन्म में हिरण्यकश्यप और हिरण्याक्ष, दूसरे जन्म में रावण और कुम्भकर्ण तथा अंतिम तीसरे जन्म में कंस और शिशुपाल बने एवं श्री कृष्ण के हाथों अपने परमगति को प्राप्त होकर पुनः विष्णुलोक लौट गये।
काव्यपाठ सुनें----https://www.youtube.com/watch?v=ocIlBMeTnqM
शिशुपालवधम्
१.माघस्य परिचय: -
महाकविमाघः गुर्जरदेशे श्रीमाल नामकस्थाने विशिष्टब्राह्मणपरिवारे जन्म लेभे । तस्य पितुः नाम ‘दत्तक’ आसीत्; किन्तु सःसर्वाश्रयः इति नामान्तरेणापि प्रसिध्दः आसीत् । अस्य पितामहः ‘श्रीसुप्रभदेव’ नामाः; ‘श्रीवर्मल’ नाम्नः राज्ञः प्रधानसचिवः प्रधानसेनापतिश्चासीत् । इत्थं महाकवेः माघस्य समयःसप्तमेशवीयशतकसस्य अन्तभागः अष्टमशतकस्य आदिभागः वा स्वीकरणं सर्वथा युक्तितयुक्तं स्यात् । महाभारतीयां कथमाश्रित्य विंशतिसर्गात्मकं ‘शिशुपालवधम् महाकाव्यम्’ इत्येका एव कृतिः समुपलभ्यते माघस्य ।
२. शिशुपालवधम् --
महाभारतस्य सभापर्वस्य ३३ तमात् ४५ पर्यन्तेषु त्रयोदशसु अध्यायेषु शिशुपालवधस्य कथा उपलभ्यते । इयं कथा श्रीमदभागवतेऽपि दशमस्कन्धस्य ७४ तमेऽध्याये सूक्ष्मरुपेण वर्तते । अस्या विंशतिसर्गात्मकस्य शिशुपालवधमहाकाव्यस्य रचना तु महाकविमाघेन महाभारतीयां कथामाश्रित्य विहिता । अनेके श्लोकास्तु प्रायः महाभारतस्य श्लोकैः समम् एव दृश्यन्ते । तद्यथा –
आचार्यमृत्विजञ्चैव संयुजञ्च युधिष्ठिर ।
स्नातकं च प्रियं प्राहुः षडर्ध्यर्हान्नृपं तथा ॥
पशुवद् घातनं वा मे दहनं वा कटाग्निना ।
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ॥
अत्र महाभारतापेक्षया महाकाव्योपयोगिनः अनेके विषयाः वर्णिताः; तृतीयसर्गात् त्रयोदशसर्गं यावत् भगवतः श्रीकृष्णस्य ऐश्वर्य –प्रस्थान –वनविहार –जलक्रीडा-रैवतकपर्वत-सन्ध्या-प्रातः- प्रकृत्यादिविषयाणां वर्णनानन्तरं महाराजयुधिष्ठिरस्य राजसूययज्ञे श्रीकृष्णस्य आगमनं वर्णितम् ।
एतेन ज्ञायते यत् अस्य महाकाव्यस्य आधारः महाभारतीया कथा एव, किन्तु शिशुपालस्य वधमित्यादिषु स्थलेषु कुत्रचित् महाकवेः मौलिकचिन्तनेन कथाभेदोऽपि दृश्यते । संस्कृतसाहित्ये पाण्डित्यमयशैल्याः चरमोत्कर्षोदृश्यते श्रीमाघे । कालिदासस्योपमा – भाभीरथी; भारवेरर्थगुरुता- यमुना, दण्डिनः हर्षस्य वा पदललिता- सरस्वती तीर्थराजसदृशे कविराजे श्रीमाघे विराजते ।
महाकविमाघेन प्रणीतं शिशुपालवधमहाकाव्यं विंशतिसर्गेषु पूर्णं जातम् । तस्यैतिहासिकं वृत्तमधोलिखितमस्ति – पाण्डवाः प्रथमवनवासदिवसावधिं प्रपूर्य इन्द्रप्रस्थनगरीं समधिकृतवन्त आसन् । भगवतः श्रीकृष्णस्य कृपया अर्जुनभीम- नकुलसहदेवानाम्पराक्रमेण च धर्मराजयुधिष्ठिरेणा समग्रमपि जम्बूद्वीपं विजित्य विपुलं धनमेकस्थीकृतम् । एवमतुलसाम्राज्यं विपुलं वैभवञ्चावाप्य युधिष्ठिरो राजसूययज्ञं कर्तुमैच्छत् । प्रायः समग्रस्य जम्बूद्वीपस्य (एशियायाः) भगवतः श्रीकृष्णस्यानुयायिनो विरोधिनश्च राजानो यज्ञेऽस्मिन्नामन्त्रिता आसन् । यज्ञेऽस्मिन् भगवान् श्रीकृष्णः सर्वकर्मद्रष्टा आसीत् । सर्वेऽपि राजानो यज्ञकार्येषु योग्यतानुसारं भागं गृह्णन्ति स्म । ऎतिहासिकोऽयं यज्ञ आसीत् । अतीवमहत्सज्जया यज्ञः सुसम्पन्नः । याज्ञिकाः ब्राह्मणाः दक्षिणादिना सत्कृताः ।
ततः सदस्यपूजाया अवसरस्समुपस्थितः । शास्त्रानुसारेण यज्ञसमाप्तौ गुणवतेऽर्ध्यप्रदानस्य नियमोऽस्ति । प्रतिष्ठेयं कस्मै प्रदेया ? विषयेऽस्मिन् पप्रच्छ युधिष्ठिरो भीष्मम् । शास्त्रानुसारं षडङ्गवेदाध्ययनाध्यापनरतो ब्राह्मणस्नातकः, गुरुः बन्धुः, जामाता, राजा, ऋत्विग्, याज्ञिकश्चैते षट् सदस्याः पूजनार्हाः भवन्ति । यदि कश्चन सर्वगुणसम्पन्नः स्यात्तर्हि सोऽपि पूजनार्हो भवति । भीष्मोऽस्यै प्रतिष्ठायै भगवान् श्रीकृष्ण एव महत्तम् इत्युद्घोषितवान् । युधिष्ठिरश्च भगवन्तं श्रीकृष्णमेव पूजयामास ।
शिशुपालो भगवतः श्रीकृष्णस्येदं सम्मानं द्रष्टुं नाशकत । स क्रोधाविष्टः रक्तीकृतनेत्रेश्च् सन् उच्चमुष्णञ्च श्वसितुमारेभे । धर्मराजं युधिष्ठिरं च निन्दित्वा भगवतः श्रीकृष्णस्योपरि नानाविधानाक्षेपान् कर्तुं प्रवृत्तः । भगवान् श्रीकृष्णः मौनावलम्बितः सन् मनसैव शिशुपालस्यापराधान् गणयति स्म । भीष्मः शिशुपालस्येदं धाष्टर्थं सोढुं नाशकत् तन्मुखाच्च भगवतः श्रीकृष्णस्य निन्दां श्रुत्वा सः क्षुब्धः सञ्जातः । तेनोक्तम् – “ अद्य मया विहिता भगवतः श्रीकृष्णस्य पूजा न यस्मै रोचते सः धनुर्धारयेत्” । इत्युक्ते भीष्मे शिशुपालसमर्थकाः राजानो यज्ञमण्डपाद् बहिर्गन्तुमुद्यता बभूवुः । शिशुपालः पुनः कठोराणि वचांसि उवाच, तत्स्थानाच्च निः सृत्य भगवन्तं श्रीकृष्णं युध्दार्थमाहूय चमूः सज्जां कर्तुमारेभे । पाण्डवास्तत्पक्षिणश्च राजानः शान्ता आसन् । चमूसज्जां विधाय शिशुपालेन राजसभायां स्वकीयो दूतः प्रेषितः । स दूतः श्लिष्टशब्दैर्भगवन्तं श्रीकृष्णं निन्दयामास ।
भगवतः श्रीकृष्णस्य प्रेरणया सात्यकिस्तस्याक्षेपाणामुचितमुत्तरम्प्रादात्, तथापि सोऽनेकान्यापत्तिजनकानि वचांस्यकथयत् । अनेन भगवान् श्रीकृष्णस्तत्समर्थकाः राजानश्चचाऽत्यन्तं क्रुध्दाः सञ्जाताः । अन्ते च युध्दः प्रारब्ध एव । शिशुपालस्य सम्पूर्णाऽपि चमूर्नष्टा । चम्वां विनष्टायां सत्यां सः स्वयं भगवता श्रीकृष्णेन साकं योध्दुमारेभे । यद्ध्यमानः सः श्रान्तो भूत्वा कठोराणि वचांस्यवदत् । ततः शकसंख्यकेष्व पराधेषु पूर्णेषु, तद्वधेऽधिकं विलम्बमनुचितम्मत्वा भगवान् श्रीकृष्णः सुदर्शनचक्रेण शिशुपालस्य शिरश्चिच्छेद अस्मिन्नेव समये तस्य शरीरादेकस्तेजः समूहो निः सृत्य भगवतः श्रीकृष्णस्य शरीरेऽन्तर्हितः । सर्वे चानया घटनया विस्मिताः बभूवुः ।
महाकविमाघेन २० सर्गात्मके स्वीये शिशुपालवधे महाकाव्ये सर्वेषामेव रसानां साधिकारं सहृदयपरितोषं कुर्वता प्राधान्येन वीररसः तदङ्गतया च सर्वेऽन्ये रसाः यथास्थानं विन्यस्ताः । रैवतक्- सूर्यास्त –सागरवर्णनमित्यादिस्थलानि अस्य प्रकृतिप्रियतां प्रतिपादयन्ति । यथा – रैवतकपर्वतवर्णने –
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिघण्टा- द्वयपरिवारितवारणेन्द्र्लीलाम् ॥
अस्य कृतौ प्रायः कोऽपि श्लोकः अलङ्काररहितो न दृश्यते । प्रायशः षोडशविधानां छन्दसां प्रयोगः कृतः महाकविना, तत्रापि पञ्चमसर्गीयायाः वसन्ततिलकायाः एकादशसर्गीयायाः मामिन्याः सौषम्यं सर्वातिशायि संशोभते । कवित्वकौशलस्य चूडान्तनिदर्शनं महाकाव्यमिदम् । यथा, द्र्ष्टव्यं पद्यमिदं –
मधुरया मधुबोधितमाधवीमधुसमृध्दिसमेधितमेधया ।
इत्थं ज्ञातुं शक्यते यत् सर्वत्र नवनवां शब्दराशिं वितन्वन् असौ नवसर्गेषु कविनामन्येषां कृते शब्ददारिद्रयं विहितवान् ।
video देखें---- https://www.youtube.com/watch?v=K8jAercDVAU
see video-----https://www.youtube.com/watch?v=WAhp5SNjC4I
video देखें---- https://www.youtube.com/watch?v=K8jAercDVAU
शिशुपालवधम् (माघ:)
श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १.०१ ॥
गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः ॥ १.०२ ॥
चयस्तविषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ १.०३ ॥
नवानधोऽधो बृहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम् ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्घुना ॥ १.०४ ॥
दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्र मरीचिरोचिषम् ।
विपाकस्तुङ्गास्तुहिनस्थलीरुहो धरादरेन्द्रं व्रततीततीरिव ॥ १.०५ ॥
पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्नद्युति ।
सुवर्मसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥ १.०६ ॥
विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितत्नुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तटितां गणैरिव ॥ १.०७ ॥
निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ १.०८ ॥
अजस्रमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥ १.०९ ॥
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥ १.१० ॥
see video-----https://www.youtube.com/watch?v=WAhp5SNjC4I
No comments:
Post a Comment