Monday, 23 March 2015

नैषधीयचरितम् - श्रीहर्ष:

                            नैषधीयचरितम् (भारवि:)



            महाकविना श्रीहर्षेण नैषधीयचरितमहाकाव्ये नलदमयन्त्याः स्नेहकथायाः चित्ताकर्षकं वर्णनं द्वाविंशतिसर्गेषु समाहितम् । सौन्दर्यातिशयसमन्विता विदर्भराजतनया भैमि नैषधीयचरितमहाकाव्यस्य प्रधानभूता नायिका विद्यते । तस्यामादर्शनायिकायाः सर्वे गुणाः समाविष्टाः सन्ति । समासेन तान् गुणानाधारीकृत्य वयमत्र किञ्चिद्विचारयामः । अनन्यसुन्दरी – कुण्डिनपुर्या अधिपतेः भूपतेः भीमसेनस्यात्मजा दमयन्ति त्रिलोकललनाललामभूता अतीव कमनीय वर्तते । तस्याः कमनीयकमवेक्ष्य त्रिभुवने को नाम जनः मुग्धो न भवति । चन्द्रमसः सारभागं समाकृष्य दमयन्त्याः सौन्दर्यातिशयविनिर्माणं वेधसा विहितामित्येवंरुपेण कल्पते महाकविः श्रीहर्षः । यथा –
    हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ।
    कृतमध्यविलं विलोक्यते धृतगम्भीरखनीखनीलिमा ॥
एवं भैम्याः विभिन्नाङ्गानां सैन्दर्यातिशयस्य वर्णनं विदधन् तस्याः कुचद्वयस्य समुपवर्णनं कियच्चित्ताकर्षकमित्यत्र सचेतस एव प्रमाणम् । निदर्शनार्थं यथा ।

अपि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम् ।'
स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ।।
अन्यच्च –
कलशे निजहेतुदण्डजः किमु अक्रभ्रमकारितागुणः ।
स तदुच्चकुचौ भवन्प्रभाझरचक्रभ्रममातनोति यत् ॥
उच्चकुलप्रसूता – त्रिभुवनललनाललामभूता भैमी महोच्चकुले सञाता विद्यते । तस्यां विनयशीलतायाः धैर्यस्य, गाम्भीर्यस्य चादुभुतं सम्मिश्रणं दृश्यते । त्रपा तस्याः मण्डनं, धैर्यं धनं, शालीनता च प्रयसीरिवासीत् ।

२. अनुरागवती
     त्रिभुवनाऽङ्गनाऽऽदर्शभूता भैमीरियं स्वपितुरन्तिके वन्दीजनैः नरपतेः नलस्य कीर्तिगानं श्रावं श्रावं राज्ञि नलेऽनुरक्ता सञ्जाता । हिरण्मयो हंसः यदा दमयन्त्या उपवने समुपेत्य तस्या अन्तिके नैषधस्य गुणगानं विधाय भौम्याः हृदगताशयं वेदितुमभिलषति, तदा त्रिपान्विता भैमी शालीनतायाः परां कोटिं सन्दर्शयति ब्रूते –
  मनस्तु यं नोज्झ्ति जातु यातु मनोरथः कण्ठपथं कथं सः ?
   का नाम बाला द्विजराजपाणिग्रहाऽभिलाषं कथयेदभिज्ञा ?

अन्यच्च –
      इतिरिता पत्ररथेन तेन ह्रीणा च हृष्टा च बभाण भैमि ।
चेतो नलङ्कामयते मदीयं नाऽन्यत्र कुत्राऽपि च साऽभिलाषम् ॥
इदमस्ति किञ्चन महाकाव्यम् । अस्य लेखकः अस्ति श्रीहर्षः । संस्कृतसाहित्ये पञ्च महाकाव्यानि इति यानि प्रसिद्धानि सन्ति तेषु अन्यतममस्ति इदं महाकाव्यम् ।

३.ग्रन्थविवरणम्-
      अस्मिन् २२ सर्गाः सन्ति । अन्ते ग्रन्थस्यसमाप्तिः न निर्दिष्टा इति कारणतः इदम् असम्पूर्णं स्यात् इति संशयः उत्पद्यते । नैषधं विद्वदौषधम् इति उक्त्यनुसारं काव्यमिदं कठिनमस्ति । अस्मिन् निषधराजः नलः विदर्भस्य राजकन्या दमयन्ती इत्यनयोः विवाहः, हंसस्य दौत्यं, प्रतिसन्देशप्राप्तिः, नलस्य वरणं, दमयन्त्याः विरहः, राजकुमारस्य वर्णनं, दमयन्तीवर्णनं, दमयन्तीस्वयंवरः, नलस्य राज्यशासनम् इत्यादयः विषयाः चातुर्येण वर्णिताः सन्ति ।



                           
                                         केचन श्लोका: -
     
                निपीय यस्य क्षितिरक्षिणः कथाः
                तथाद्रियन्ते न बुधाः सुधामपि ।
                नला सितच्छत्रितकीर्तिमण्डलः
                 स राशिरासीन्महसां महोज्ज्वलः ।।1।।
                   
सैः कथा यस्य सुधावधीरणी
नलः स भूजानिरभूह्गुणाद्भुतः ।
सुवर्णदण्डैकसितातपत्रित
ज्वलत्प्रतापावलिकीर्तिमण्डलः ।।2।।
                                                   पवित्रमत्रातनुते जगद्युगे
                                                     स्मृता रसक्षालनयेव यत्कथा ।
                                                     कथं न सा मद्गिरमाविलामपि
                                                     स्वसेविनीमेव पवित्रयिष्यति ।।3।।
  अधीतिबोधाचरणप्रचारणै
र्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
चतुर्दशत्वं कृतवान्कृतः स्वयं
न वेद्मि विद्यासु चतुर्दश स्वयम् ।।4।।



No comments:

Post a Comment